This page has been fully proofread once and needs a second look.

<page>
<ignore>
ब्रह्मज्ञानावलीमाला ।
 
२२३</ignore>
<verse>
द्वन्द्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः ।

सर्वसाक्षिस्वरूपोऽहमहमेवाहमव्ययः ॥ १३ ॥
 
</verse>
<verse>
प्रज्ञानघन एवाहं विज्ञानघन एव च ।

अकर्ताहमभोक्ताहमहमेवाहमव्ययः ॥ १४ ॥
 
</verse>
<verse>
निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च ।

आप्तकामस्वरूपोऽहमहमेवाहमव्ययः ॥ १५ ॥
 
</verse>
<verse>
तापत्रयविनिर्मुक्तो देहत्रयविलक्षण: ।
 
णः ।
अवस्थात्रय साक्ष्यम्मि चाहमेवाहमव्ययः ॥ १६ ॥
 
२२३
 
eerौ
</verse>
<verse>दृग्दृश्यौ
द्वौ पदार्थोंथौ स्तः परस्परविलक्षणौ ।
दु

दृ
ग्ब्रह्म दृश्यं मायेति सर्ववेदान्तडिण्डिमः ॥ १७ ॥
 
</verse>
<verse>
अहं साक्षीति यो विद्याद्विविच्यैवं पुन:नः पुन: ।
 
नः ।
स एव मुक्तः सो विद्वानिति वेदान्तडिण्डिमः ॥ १८ ॥
 
</verse>
<verse>
घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च ।
 

द्वद्ब्रह्म जगत्सर्वमिति वेदान्तडिण्डिमः ॥ १९ ॥
 
</verse>
</page>