2026-02-24 05:33:35 by ambuda-bot
This page has not been fully proofread.
ब्रह्मज्ञानावलीमाला ।
द्वन्द्वादिसाक्षिरूपोऽहमचलोऽहं सनातनः ।
सर्वसाक्षिस्वरूपोऽहमहमेवाहमव्ययः ॥ १३ ॥
प्रज्ञानघन एवाहं विज्ञानघन एव च ।
अकर्ताहमभोक्ताहमहमेवाहमव्ययः ॥ १४ ॥
निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च ।
आप्तकामस्वरूपोऽहमहमेवाहमव्ययः ॥ १५ ॥
तापत्रयविनिर्मुक्तो देहत्रयविलक्षण: ।
अवस्थात्रय साक्ष्यम्मि चाहमेवाहमव्ययः ॥ १६ ॥
२२३
eerौ द्वौ पदार्थों स्तः परस्परविलक्षणौ ।
दुग्ब्रह्म दृश्यं मायेति सर्ववेदान्तडिण्डिमः ॥ १७ ॥
अहं साक्षीति यो विद्याद्विविच्यैवं पुन: पुन: ।
स एवमुक्तः सो विद्वानिति वेदान्तडिण्डिमः ॥ १८ ॥
घटकुड्यादिकं सर्व मृत्तिकामात्रमेव च ।
तद्ब्रह्म जगत्सर्वमिति वेदान्तडिण्डिमः ॥ १९ ॥