This page has been fully proofread once and needs a second look.

<page>
<ignore>
प्रौढानुभूतिः ।
 
२१७
 
</ignore>
<p>
सत्ताचित्सुखरूपमस्ति सततं नाहं च न त्वं मृषा

नेदं वापि जगत्प्रदृष्टमखिलं नास्तीति जानीहि भो

यत्प्रोक्तं करुणावशात्त्वयि मया तत्सत्यमेतत्स्फुटं

श्रद्धत्स्वानघ शुद्धबुद्धिरसि चेन्मात्रास्तु ते संशय:यः
 
</p>
<verse>
स्वारस्यैकसुबोधचारुमनसे प्रौढानुभूतिस्त्वियं

दातव्या न तु मोहदुग्धकुधिये दुष्टान्तरङ्गाय च ।

येयं रम्यविदर्पितोत्तमशिरः प्राप्ता चकास्ति स्वयं

सा चेन्मर्कटस्तदेशपतिता किं राजते केतकी ॥ १७ ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 

श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य
 

श्रीमच्छंकरभगवतः कृतौ
 

प्रौढानुभूति:तिः संपूर्णा ॥
 
</trailer>
</page>