This page has not been fully proofread.

प्रौढानुभूतिः ।
 
२१७
 
सत्ताचित्सुखरूपमस्ति सततं नाहं च न त्वं मृषा
नेदं वापि जगत्प्रदृष्टमखिलं नास्तीति जानीहि भो
यत्प्रोक्तं करुणावशात्वयि मया तत्सत्यमेतत्स्फुटं
श्रद्धत्स्वानघ शुद्धबुद्धिरसि चेन्मात्रास्तु ते संशय: ॥
 
स्वारस्यैकसुबोधचारुमनसे प्रौढानुभूतिस्त्वियं
दातव्या न तु मोहदुग्धकुधिये दुष्टान्तरङ्गाय च ।
येयं रम्यविदर्पितोत्तमशिरः प्राप्ता चकास्ति स्वयं
सा चेन्मर्कटस्तदेशपतिता किं राजते केतकी ॥ १७ ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
 
प्रौढानुभूति: संपूर्णा ॥