This page has been fully proofread once and needs a second look.

<page>
<ignore>
२१६
 
प्रौढानुभूतिः ।
 
</ignore>
<verse>
श्रोतव्यं च किमस्ति पूर्णसुदृशो मिध्थ्यापरोक्षस्य मे

मन्तव्यं च न मेऽस्ति किंचिदपि वा निःसंशयज्योतिषः ।

ध्यातृध्येयविभेदहा निवपुषो न ध्येयमस्त्येव मे
 

सर्वात्मैकमहारसस्य सततं नो वा समाधिर्मम ॥ १२ ॥
 
</verse>
<verse>
आत्मानात्मविवेचनापि मम नो विद्वत्कृता रोचते -
S

नात्मा नास्ति यदस्ति गोचरवपुः को वा विवेक्तुं क्षमी ।

मिथ्यावादविचारचिन्तनमहो कुर्वन्त्यदृष्टात्मका
 

भ्रान्ता एव न पारगा दृढधियस्तूष्णीं शिलावत्स्थिताः ॥
 
</verse>
<verse>
वस्तुस्थित्यनुरोधतस्त्वह महो कश्चित्पदार्थो न चा-
 

प्येवं कोऽपि विभामि संततदृशी वाड्यानसागोचरः ।

निष्पापोऽस्म्यभयोऽस्म्यहं विगतदुःशङ्काकलङ्कोऽस्म्यहं

संशान्तानुपमानशीतलमहः प्रौढप्रकाशोऽस्म्यहम् ॥ १४॥
 
</verse>
<verse>
योऽहं पूर्वमितः प्रशान्तकलनाशुद्धोऽस्मि बुद्धोऽस्म्यहं

यस्मान्मत्त इदं समुत्थितमभूदेतन्मया धार्यते ।

मय्येव प्रलयं प्रयाति निरधिष्ठानाय तस्मै सदा
 

सत्यानन्दचिदात्मकाय विपुलप्रज्ञाय मह्यं नमः ॥ १५ ॥
 
</verse>
</page>