This page has been fully proofread once and needs a second look.

<page>
<ignore>
२१४
 
प्रौढानुभूतिः ।
 
</ignore>
<verse>
नाहं खादिरपि स्फुटं मरुतलभ्राजत्पयः साम्यत-

स्तेभ्यो नित्यविलक्षणोऽखिलदृशि :शिः सौरप्रकाशो यथा ।

दृश्यैः सङ्गविवर्जितो गगनवत्सं पूर्णरूपोऽस्म्यहं

वस्तुस्थित्यनुरोधतस्त्वहमिदं वीच्यादि सिन्धुर्यथा ॥ ४ ॥
 
नि
</verse>
<verse>निर्
द्वैतोऽस्म्यहमस्मि निर्मलचिदाकाशोऽस्मि पूर्णोऽस्म्यहं

निर्देहोऽस्मि निरिन्द्रियोऽस्मि नितरां निष्प्राणवर्गोऽस्म्यहम् ।

निर्मुक्ताशुभमानसोऽस्मि विगलद्विज्ञानकोशोऽस्म्यहं

निर्मायोऽस्मि निरन्तरोऽस्मि विपुलप्रौढप्रकाशोऽस्म्यहम् ॥
 
</verse>
<verse>
मत्तोऽन्यन्न हि किंचिदस्ति यदि चिद्भास्यं ततस्तन्मृषा

गुञ्जावह्निवदेव सर्वकलनाधिष्ठानभूतोऽस्म्यहम् ।

सर्वस्यापि दृगस्म्यहं समरसः शान्तोऽस्म्यपापोऽस्म्यहं

पूर्णोऽस्मि द्वयवर्जितोऽस्मि विपुलाकाशोऽस्मि नित्योऽस्म्यहम् ॥
 
</verse>
<verse>
मय्यस्मिन्परमार्थके श्रुतिशिरोवेद्ये स्वतो भासने
 

का वा विप्रतिपत्तिरेतदखिलं भात्येव यत्संनिधेः ।

सौरालोकवशात्प्रतीतमखिलं पश्यन्न तस्मिञ्जन:
 
नः
संदिग्धोऽस्त्यत एव केवलशिवः कोऽपि प्रकाशोऽस्म्यहम् ॥
 
</verse>
</page>