This page has not been fully proofread.

२१४
 
प्रौढानुभूतिः ।
 
नाहं खादिरपि स्फुटं मरुतलभ्राजत्पयः साम्यत-
स्तेभ्यो नित्यविलक्षणोऽखिलदृशि : सौरप्रकाशो यथा ।
दृश्यैः सङ्गविवर्जितो गगनवत्सं पूर्णरूपोऽस्म्यहं
वस्तुस्थित्यनुरोधतस्त्वहमिदं वीच्यादि सिन्धुर्यथा ॥ ४ ॥
 
निद्वैतोऽस्म्यहमस्मि निर्मलचिदाकाशोऽस्मि पूर्णोऽस्म्यहं
निर्देहोऽस्मि निरिन्द्रियोऽस्मि नितरां निष्प्राणवर्गोऽस्म्यहम् ।
निर्मुक्ताशुभमानसोऽस्मि विगलद्विज्ञानकोशोऽस्म्यहं
निर्मायोऽस्मि निरन्तरोऽस्मि विपुलप्रौढप्रकाशोऽस्म्यहम् ॥
 
मत्तोऽन्यन्न हि किंचिदस्ति यदि चिद्भास्यं ततस्तन्मृषा
गुञ्जावह्निवदेव सर्वकलनाधिष्ठानभूतोऽस्म्यहम् ।
सर्वस्यापि दृगस्म्यहं समरसः शान्तोऽस्म्यपापोऽस्म्यहं
पूर्णोऽस्मि द्वयवर्जितोऽस्मि विपुलाकाशोऽस्मि नित्योऽस्म्यहम् ॥
 
मय्यस्मिन्परमार्थके श्रुतिशिरोवेद्ये स्वतो भासने
 
का वा विप्रतिपत्तिरेतदखिलं भात्येव यत्संनिधेः ।
सौरालोकवशात्प्रतीतमखिलं पश्यन्न तस्मिञ्जन:
 
संदिग्धोऽस्त्यत एव केवलशिवः कोऽपि प्रकाशोऽस्म्यहम् ॥