2026-03-06 05:08:08 by akprasad
This page has been fully proofread once and needs a second look.
<subtitle>॥ श्रीः ॥</subtitle>
<title>॥ प्रौढानुभूतिः ॥
<verse>प्रौढप्रौढनि
र्गूढं गूढमघौघदुष्टकुधियां स्पष्टं सुधीशालिनाम् ।
स्वान्ते सम्यगिहानुभूतमपि सच्छिष्यावबोधाय त-
त्सत्यं संस्मृतवान्समस्तजगतां नैजं निजालोकनात् ॥
<verse>द्वैतं मय्यखिलं समुत्थितमिदं मिथ्या मनः
तोयं तोयविवर्जिते मरुतले भ्रान्त्यैव सिद्धं न हि ।
यद्येवं खलु दृश्यमेतदखिलं नाहं न वा तन्मम
प्रौढानन्दचिदेक
<verse>देहो नाहमचेतनोऽयमनिशं कुड्या
नाहं प्राणमयोऽपि वा दृतिधृतो वायुर्यथा निश्चितः ।
सोऽहं नापि मनोमयः कपिच
बुद्धिर्बुद्धकुवृत्तिकेव कुहना नाज्ञानमन्धंतमः ॥ ३ ॥
</page>