2026-02-24 05:33:32 by ambuda-bot
This page has not been fully proofread.
॥ xft: ॥
॥ प्रौढानुभूतिः ॥
प्रौढप्रौढनि जानुभूतिगलितद्वैतेन्द्रजालो गुरु-
गूढं गूढमघौघदुष्टकुधियां स्पष्टं सुधीशालिनाम् ।
स्वान्ते सम्यगिहानुभूतमपि सच्छिष्यावबोधाय त-
त्सत्यं संस्मृतवान्समस्तजगतां नैजं निजालोकनात् ॥
द्वैतं मय्यखिलं समुत्थितमिदं मिथ्या मनः कल्पितं
तोयं तोयविवर्जिते मरुतले भ्रान्त्यैव सिद्धं न हि ।
यद्येवं खलु दृश्यमेतदखिलं नाहं न वा तन्मम
प्रौढानन्दचिदेक सन्मयवपुः शुद्धोऽस्म्यखण्डोऽस्म्यहम् ॥
देहो नाहमचेतनोऽयमनिशं कुड्या दिवन्निश्चितो
नाहं प्राणमयोऽपि वा दृतिधृतो वायुर्यथा निश्चितः ।
सोऽहं नापि मनोमयः कपिचल: कार्पण्यदुष्टो न वा
बुद्धिर्बुद्धकुवृत्तिकेव कुहना नाज्ञानमन्तमः ॥ ३ ॥