This page has not been fully proofread.

२१०
 
मायापञ्चकम् ।
 
अपगतगुणवर्णजातिभेदे
 
सुखचिति विप्रविडाद्यहंकृतिं च ।
स्फुटयति सुतदारगेहमोहं
 
त्वघटित घटनापटीयसी माया ॥ ४ ॥
 
विधिहरिहर विभेदमप्यखण्डे
 
बत विरचय्य बुधानपि प्रकामम् ।
 
भ्रमयति हरिहर भेदभावा-
 
नघटित घटनापटीयसी मया ॥ ५ ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्रीगोविन्दभगवत्पूज्यपादशिष्यंस्य
 
श्रीमच्छंकरभगवतः कृतौ
 
मायापञ्चकं संपूर्णम् ॥