2026-02-24 05:33:30 by ambuda-bot
This page has not been fully proofread.
॥ श्रीः ॥
॥ मायापञ्चकम् ॥
निरुपमनित्य निरंशकेऽप्यखण्डे
मयि चिति सर्वविकल्पनादिशून्ये ।
घटयति जगदीशजीवभेदं
त्वघटित घटनापटीयसी माया ॥ १ ॥
श्रुतिशतनिगमान्तशोधकान-
यह धनादिनिदर्शनेन सद्यः ।
कलुषयति चतुष्पदाद्यभिन्ना-
नघटितघटनापटीयसी माया ॥ २ ॥
सुखचिदखण्डविबोधमद्वितीयं
वियदनलादिविनिर्मिते नियोज्य ।
भ्रमयति भवसागरे नितान्तं
त्वघटितघटनापटीयसी माया ॥ ३ ॥
S. P. III. 14
॥ मायापञ्चकम् ॥
निरुपमनित्य निरंशकेऽप्यखण्डे
मयि चिति सर्वविकल्पनादिशून्ये ।
घटयति जगदीशजीवभेदं
त्वघटित घटनापटीयसी माया ॥ १ ॥
श्रुतिशतनिगमान्तशोधकान-
यह धनादिनिदर्शनेन सद्यः ।
कलुषयति चतुष्पदाद्यभिन्ना-
नघटितघटनापटीयसी माया ॥ २ ॥
सुखचिदखण्डविबोधमद्वितीयं
वियदनलादिविनिर्मिते नियोज्य ।
भ्रमयति भवसागरे नितान्तं
त्वघटितघटनापटीयसी माया ॥ ३ ॥
S. P. III. 14