2026-03-22 04:47:40 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२०६
तत्त्वोपदेशः ।
</ignore>
<verse>गुरुर्ब्रह्म स्वयं साक्षात्सेव्यो वन्यो बन्द्यो मुमुक्षुभिः ।
नोद्वेजनीय एवायं कृतज्ञेन विवेकिना ॥ ८५ ॥
</verse>
<verse>यावदायुस्त्वया वन्द्यो वेदान्तो गुरुरीश्वरः ।
मनसा कर्मणा वाचा श्रुतिरेवैष निश्चयः ॥ ८६ ॥
</verse>
<verse>भावाद्वैतं सदा कुर्यात्क्रियाद्वैतं न कर्हिचित् ।
अद्वैतं त्रिषु लोकेषु नाद्वैतं गुरुणा सह ॥ ८७ ॥
</verse>
<trailer>इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
तत्त्वोपदेशः संपूर्णः ॥
</trailer>
</page>
<ignore>२०६
<verse>गुरुर्ब्रह्म स्वयं साक्षात्सेव्यो वन्