2026-03-06 02:42:30 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>प्रबोधसुधाकरः ।
</ignore>
<verse>यत्नादस्य पिधत्ते स्वाभाविकदोषसंघातम् ।
औपाधिकगुणनिवहं प्रकाशयञ्श्लाघते मूढः ॥ २३ ॥
</verse>
<verse>क्षतमुत्पन्नं देहे यदि न प्रक्षाल्यते त्रिदिनम् ।
तत्रोत्पतन्ति बहवः क्रिमयो दुर्गन्धसंकीर्णाः ॥ २४ ॥
</verse>
<verse>यो देहः सुप्तोऽभूत्सुपुष्पशय्योपशोभिते तल्पे ।
संप्रति स रज्जुकाष्ठैर्नियन्त्रितः क्षिप्यते वह्नौ ॥ २५ ॥
</verse>
<verse>सिंहासनोपविष्टं दृष्ट्वा यं मुदमवाप लोकोऽयम् ।
तं कालाकृष्टतनुं विलोक्य नेत्रे निमीलयति ॥ २६ ॥
</verse>
<verse>एवंविधोऽतिमलिनो देहो यत्सत्तया चलति ।
तं विस्मृत्य परेशं वहत्यहंतामनित्येऽस्मिन् ॥ २७ ॥
</verse>
<verse>वात्मा सच्चिद्रूपः क्व मांसरुधिरास्थिनिर्मितो देहः ।
इति यो लज्जति धीमानितरशरीरं स किं मनुते ॥ २८ ॥
</verse>
<heading>विषयनिन्दाप्रकरणम् ।
</heading>
<verse>मूढः कुरुते विषयजकर्दमसंमार्जनं मिथ्या ।
दुरदृष्टवृष्टिविरसो देहो गेहं पतत्येव ॥ २९ ॥
</verse>
</page>