This page has been fully proofread once and needs a second look.

<page>
<ignore>
प्रबोधसुधाकरः ।
 
</ignore>
<verse>
यत्नादस्य पिधत्ते स्वाभाविकदोषसंघातम् ।

औपाधिकगुणनिवहं प्रकाशयञ्श्लाघते मूढः ॥ २३ ॥
 
</verse>
<verse>
क्षतमुत्पन्नं देहे यदि न प्रक्षाल्यते त्रिदिनम् ।

तत्रोत्पतन्ति बहवः क्रिमयो दुर्गन्धसंकीर्णाः ॥ २४ ॥
 
</verse>
<verse>
यो देहः सुप्तोऽभूत्सुपुष्पशय्योपशोभिते तल्पे ।

संप्रति स रज्जुकाष्ठैर्नियन्त्रितः क्षिप्यते वह्नौ ॥ २५ ॥
 
</verse>
<verse>
सिंहासनोपविष्टं दृष्ट्वा यं मुदमवाप लोकोऽयम् ।

तं कालाकृष्टतनुं विलोक्य नेत्रे निमीलयति ॥ २६ ॥
 
</verse>
<verse>
एवंविधोऽतिमलिनो देहो यत्सत्तया चलति ।
 

तं विस्मृत्य परेशं वहत्यहंतामनित्येऽस्मिन् ॥ २७ ॥
 
</verse>
<verse>
वात्मा सच्चिद्रूपः क्व मांसरुधिरास्थिनिर्मितो देहः ।

इति यो लज्जति धीमानितरशरीरं स किं मनुते ॥ २८ ॥
 
</verse>
<heading>
विषयनिन्दाप्रकरणम् ।
 
</heading>
<verse>
मूढः कुरुते विषयजकर्दमसंमार्जनं मिथ्या ।

दुरदृष्टवृष्टिविरसो देहो गेहं पतत्येव ॥ २९ ॥
 
</verse>
</page>