This page has not been fully proofread.

तत्त्वोपदेशः ।
 
पण्डितस्तत्र मेधावी युक्त्या वस्तु विचारयन् ।
निदिध्यासनसंपन्नः प्राप्तो हि त्वं परं पदम् ॥ ७७ ॥
 
अतो ब्रह्मात्मविज्ञानमुपदिष्टं यथाविधि ।
 
मयाचार्येण ते धीर सम्यक्तत्र प्रयत्नवान् ॥ ७८ ॥
 
भूत्वा विमुक्तबन्धस्त्वं छिन्नद्वैतात्मसंशयः ।
 
निर्द्वन्द्वो निःस्पृहो भूत्वा विचरस्व यथासुखम् ॥ ७९ ॥
 
वस्तुतो निष्प्रपश्वोऽसि नित्यमुक्त: स्वभावतः ।
 
२०५
 
न ते बन्धविमोक्षौ स्तः कल्पितौ तौ यतस्त्वयि ॥ ८० ॥
 
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ ८१ ॥
 
श्रुतिसिद्धान्तसारोऽयं तथैव त्वं स्वया धिया ।
संविचार्य निदिध्याय निजानन्दात्मकं परम् ॥ ८२ ॥
 
साक्षात्कृत्वा परिच्छिन्नाद्वैत ब्रह्माक्षरं स्वयम् ।
 
जीवन्नेव विनिर्मुक्तो विश्रान्तः शान्तिमाश्रय ॥ ८३ ॥
 
विचारणीया वेदान्ता वन्दनीयो गुरुः सदा ।
 
गुरूणां वचनं पथ्यं दर्शनं सेवनं नृणाम् ॥ ८४ ॥