This page has been fully proofread once and needs a second look.

<page>
<ignore>
२०४
 
तत्त्वोपदेशः ।
 
</ignore>
<verse>
जन्ममृत्युजरादोषनरकादिपरम्पराम् ।
 

निरन्तरं विषण्णोऽनुभवन्नत्यन्तशोकवान् ॥ ६९ ॥
 
</verse>
<verse>
अविद्याभूतबन्धस्य निवृत्तौ दुःखदस्य च ।

स्वरूपानन्दसंप्राप्तौ सत्योपायं न लब्धवान् ॥ ७० ॥
 
</verse>
<verse>
यथा गान्धारदेशीयश्विचिरं देवाद्दयालुभिः ।

कैश्विचित्पान्यैःथैः परिप्राप्तैर्मुक्तदृष्ट्यादिबन्धनः ॥ ७१ ॥
 
</verse>
<verse>
सः स्वस्थैरुपदिष्टश्च पण्डितो निश्चितात्मकः ।

ग्रामाद्ग्रामान्तरं गच्छेन्मेधावी मार्गतत्परः ॥ ७२ ॥
 
</verse>
<verse>
गत्वा गान्धारदेशं स स्वगृहं प्राप्य पूर्ववत् ।
 

बान्धवैः संपरिष्वक्तः सुखी भूत्वा स्थितोऽभवत् ॥ ७३ ॥
 
</verse>
<verse>
त्वमप्येवमनेकेषु दुःखदायिषु जन्मसु ।
 

भ्रान्तो दैवाच्छुभे मार्गे जातश्रद्धः सुकर्मकृत् ॥ ७४ ॥
 
</verse>
<verse>
वर्णाश्रमाचारपरोऽवाप्तपुण्यमहोदयः ।
 

ईश्वरानुग्रहाल्लब्धो ब्रह्मविद्गुरुसत्तमः ॥ ७५ ॥
 
</verse>
<verse>
विधिवत्कृतसंन्यासो विवेकादियुतः सुधीः ।
 

प्राप्तो ब्रह्मोपदेशोऽद्य वैराग्याभ्यासतः परम् ॥ ७६ ॥
 
</verse>
</page>