2026-02-24 05:33:27 by ambuda-bot
This page has not been fully proofread.
२०४
तत्त्वोपदेशः ।
जन्ममृत्युजरादोषनरकादिपरम्पराम् ।
निरन्तरं विषण्णोऽनुभवन्नत्यन्तशोकवान् ॥ ६९ ॥
अविद्याभूतबन्धस्य निवृत्तौ दुःखदस्य च ।
स्वरूपानन्दसंप्राप्तौ सत्योपायं न लब्धवान् ॥ ७० ॥
यथा गान्धारदेशीयश्विरं देवाद्दयालुभिः ।
कैश्वित्पान्यैः परिप्राप्तैर्मुक्तदृष्टयादिबन्धनः ॥ ७१ ॥
सः स्वस्थैरुपदिष्टश्च पण्डितो निश्चितात्मकः ।
ग्रामाद्ग्रामान्तरं गच्छेन्मेधावी मार्गतत्परः ॥ ७२ ॥
गत्वा गान्धारदेशं स स्वगृहं प्राप्य पूर्ववत् ।
बान्धवैः संपरिष्वक्तः सुखी भूत्वा स्थितोऽभवत् ॥ ७३ ॥
त्वमप्येवमनेकेषु दुःखदायिषु जन्मसु ।
भ्रान्तो दैवाच्छुभे मार्गे जातश्रद्धः सुकर्मकृत् ॥ ७४ ॥
वर्णाश्रमाचारपरोऽवाप्तपुण्यमहोदयः ।
ईश्वरानुग्रहाल्लब्धो ब्रह्मविद्गुरुसत्तमः ॥ ७५ ॥
विधिवत्कृतसंन्यासो विवेकादियुतः सुधीः ।
प्राप्तो ब्रह्मोपदेशोऽद्य वैराग्याभ्यासतः परम् ॥ ७६ ॥