2026-03-22 04:43:00 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>तत्त्वोपदेशः ।
२०३</ignore>
<verse>व्यालादिदुष्टसत्वेभ्यो महारण्ये भयातुरः ।
शिलाकण्टकदर्भाद्यैर्देहस्य प्रतिकूलकैः ॥ ६१ ॥
</verse>
<verse>क्रियमाणे विलुठने विशीर्णाङ्गोऽसमर्थकः ।
क्षुत्ततृडातपवाय्वग्न्यादिभिस्तप्तोऽतितापकैः ॥ ६२ ॥
</verse>
<verse>बन्धमुक्तौ तथा देशप्राप्तावेव सुदुःखधीः ।
ददृशे कंचिदाक्रोशन्नैकं तत्रैव तस्थिवान् ॥ ६३ ॥
</verse>
<verse>तथा रागादिभिर्वर्गैः शत्रुभिर्दुःखदायिभि: ।
भिः ।
चौरैर्देहाभिमानाद्यैः स्वानन्दधनहारिभिः ॥ ६४ ॥
</verse>
<verse>ब्रह्मानन्दे प्रमत्तः स्वाज्ञाननिद्रावशीकृतः ।
बद्धस्त्वं बन्धनैर्भोगतृष्णाज्वरादिभिर्दृढम् ॥ ६५ ॥
</verse>
<verse>अद्वयानन्दरूपान्त्त्वां प्रत्र्च्याव्यातीव धूर्तकैः ।
दूरनीतोऽसि देहेषु संसारारण्यभूमिषु ॥ ६६ ॥
</verse>
<verse>सर्वदुःखनिदानेषु शरीरादित्रयेषु च ।
नानायोनिषु कर्मान्धवासनानिर्मितासु च ॥ ६७ ॥
</verse>
<verse>प्रवेशितोऽसि सृष्टोऽसि बद्धः स्वानन्ददृष्टितः ।
अनादिकालमारभ्य दुःखं चानुभवन्सदा ॥ ६८ ॥
२०३
</verse>
</page>
<ignore>तत्त्वोपदेशः ।
<verse>व्यालादिदुष्टसत्वेभ्यो महारण्ये भयातुरः ।
शिलाकण्टकदर्भाद्यैर्देहस्य प्रतिकूलकैः ॥ ६१ ॥
<verse>क्रियमाणे विलुठने विशीर्णाङ्गोऽसमर्थकः ।
क्षुत्
<verse>बन्धमुक्तौ तथा देशप्राप्तावेव सुदुःखधीः ।
ददृशे कंचिदाक्रोशन्नैकं तत्रैव तस्थिवान् ॥ ६३ ॥
<verse>तथा रागादिभिर्वर्गैः शत्रुभिर्दुःखदायि
चौरैर्देहाभिमानाद्यैः स्वानन्दधनहारिभिः ॥ ६४ ॥
<verse>ब्रह्मानन्दे प्रमत्तः स्वाज्ञाननिद्रावशीकृतः ।
बद्धस्त्वं बन्धनैर्भोगतृष्णाज्वरादिभिर्दृढम् ॥ ६५ ॥
<verse>अद्वयानन्दरूपा