This page has not been fully proofread.

तत्त्वोपदेशः ।
 
व्यालादिदुष्टसत्वेभ्यो महारण्ये भयातुरः ।
शिलाकण्टकदर्भाद्यैर्देहस्य प्रतिकूलकैः ॥ ६१ ॥
 
क्रियमाणे विलुठने विशीर्णाङ्गोऽसमर्थकः ।
क्षुत्तडातपवाय्वग्न्यादिभिस्तप्तोऽतितापकैः ॥ ६२ ॥
 
बन्धमुक्तौ तथा देशप्राप्तावेव सुदुःखधीः ।
ददृशे कंचिदाक्रोशन्नैकं तत्रैव तस्थिवान् ॥ ६३ ॥
 
तथा रागादिभिर्वगैः शत्रुभिर्दुःखदायिभि: ।
चौरैर्देहाभिमानाद्यैः स्वानन्दधनहारिभिः ॥ ६४ ॥
 
ब्रह्मानन्दे प्रमत्तः स्वाज्ञाननिद्रावशीकृतः ।
स्त्वं बन्धनैर्भोगतृष्णाज्वरादिभिर्दृढम् ॥ ६५ ॥
 
अद्वयानन्दरूपान्त्वां प्रत्र्याव्यातीव धूर्तकैः ।
दूरनीतोऽसि देहेषु संसारारण्यभूमिषु ॥ ६६ ॥
 
सर्वदुःखनिदानेषु शरीरादित्रयेषु च ।
 
नानायोनिषु कर्मान्धवासनानिर्मितासु च ॥ ६७ ॥
 
प्रवेशितोऽसि सृष्टोऽसि बद्धः स्वानन्ददृष्टितः ।
अनादिकालमारभ्य दुःखं चानुभवन्सदा ॥ ६८ ॥
 
२०३