This page has not been fully proofread.

२०२
 
तत्त्वोपदेशः ।
 
सदसन्न विरुद्धत्वादतोऽनिर्वाच्यमेव तत् ।
 
यः पूर्वमेक एवासीत्सृष्ट्वा पश्चादिदं जगत् ॥ ५३ ॥
 
प्रविष्टो जीवरूपेण स एवात्मा भवान्परः ।
सच्चिदानन्द एव त्वं विस्मृत्यात्मतया परम् ॥ ५४ ॥
 
जीवभावमनुप्राप्तः स एवात्मासि बोधतः ।
अद्वयानन्दचिन्मात्रः शुद्धः साम्राज्यमागतः ॥ ५५ ॥
 
कर्तृत्वादीनि यान्यासंस्त्वयि ब्रह्माद्वये परे ।
तानीदानीं विचार्य त्वं किंस्वरूपाणि वस्तुतः ॥ ५६ ॥
 
अत्रैव शृणु वृत्तान्तमपूर्व श्रुतिभाषितम् ।
कश्चिद्गान्धारदेशीयो महारत्नविभूषितः ॥ ५७ ॥
 
स्वगृहे स्वाङ्गणे सुप्तः प्रमत्तः सन्कदाचन ।
रात्रौ चौर: समागत्य भूषणानां प्रलोभितः ॥ ५८ ॥
 
बद्धा देशान्तरं चौरैर्नीतः सन्गहने वने ।
भूषणान्यपहृत्यापि बद्धाक्षकरपादक: ॥ ५९ ॥
 
निक्षिप्तो विपिनेऽतीव कुशकण्टकवृश्चिकैः ।
 
व्यालव्याघ्रादिभिश्चैव संकुले तरुसंकटे ॥ ६० ॥