This page has been fully proofread once and needs a second look.

<page>
<ignore>
तत्त्वोपदेशः ।
 
२०१</ignore>
<verse>
अपरोक्षयितुं लोके मूढैः पण्डितमानिभिः ।

अन्तःकरणसंशुद्धौ स्वयं ज्ञानं प्रकाशते ॥ ४५ ॥
 
</verse>
<verse>
वेदवाक्यैरतः किं स्याद्गुरुणेति न सांप्रतम् ।

आचार्यवान्पुरुषो हि वेदेत्येवं श्रुतिर्जगौ ॥ ४६ ॥
 
</verse>
<verse>
अनादाविह संसारे बोधको गुरुरेव हि ।
 

अतो ब्रह्मात्मत्रवस्त्वैक्यं ज्ञात्वा दृश्यमसत्तत्या ॥ ४७ ॥
 
</verse>
<verse>
अद्वैते ब्रह्मणि स्थेयं प्रत्यब्रह्मात्मना सदा ।

तत्प्रत्यक्षात्परिज्ञातमद्वैत ब्रह्मचिह्ननम् ॥ ४८ ॥
 
</verse>
<verse>
प्रतिपाद्यं तदेवात्र वेदान्तैर्न द्वयं जडम् ।

सुखरूपं चिदद्वैतं दुःखरूपमसज्जडम् ॥ ४९ ॥
 
</verse>
<verse>
वेदान्तैस्तहूद्द्वयं सम्यङ्निर्णीतं वस्तुतो नयात् ।

अद्वैतमेव सत्यं त्वं विद्धि द्वैतमसत्सदा ॥ ५० ॥
 
</verse>
<verse>
शुद्धे कथमशुद्धः स्यादृश्यं मायामयं ततः ।

शुक्तौ रूप्यं मृषा यद्वत्तथा विश्व परात्मनि ॥ ५१ ॥
 
</verse>
<verse>
विद्यते न स्वतः सत्त्वं नासतः सत्त्वमस्ति वा ।

बाध्यत्वान्नैव सद्द्वैतं नासत्प्रत्यक्षभानतः ॥ ५२ ॥
 
२०१
 
</verse>
</page>