2026-02-24 05:33:26 by ambuda-bot
This page has not been fully proofread.
तत्त्वोपदेशः ।
अपरोक्षयितुं लोके मूढैः पण्डितमानिभिः ।
अन्तःकरणसंशुद्धौ स्वयं ज्ञानं प्रकाशते ॥ ४५ ॥
वेदवाक्यैरतः किं स्याद्गुरुणेति न सांप्रतम् ।
आचार्यवान्पुरुषो हि वेदेत्येवं श्रुतिर्जगौ ॥ ४६ ॥
अनादाविह संसारे बोधको गुरुरेव हि ।
अतो ब्रह्मात्मत्रत्वैक्यं ज्ञात्वा दृश्यमसत्तत्या ॥ ४७ ॥
अद्वैते ब्रह्मणि स्थेयं प्रत्यब्रह्मात्मना सदा ।
तत्प्रत्यक्षात्परिज्ञातमद्वैत ब्रह्मचिह्ननम् ॥ ४८ ॥
प्रतिपाद्यं तदेवात्र वेदान्तैर्न द्वयं जडम् ।
सुखरूपं चिदद्वैतं दुःखरूपमसज्जडम् ॥ ४९ ॥
वेदान्तैस्तहूयं सम्यनिर्णीतं वस्तुतो नयात् ।
अद्वैतमेव सत्यं त्वं विद्धि द्वैतमसत्सदा ॥ ५० ॥
शुद्धे कथमशुद्धः स्यादृश्यं मायामयं ततः ।
शुक्तौ रूप्यं मृषा यद्वत्तथा विश्व परात्मनि ॥ ५१ ॥
विद्यते न स्वतः सत्त्वं नासतः सत्त्वमस्ति वा ।
बाध्यत्वान्नैव सद्वैतं नासत्प्रत्यक्षभानतः ॥ ५२ ॥
२०१