2026-02-24 05:33:25 by ambuda-bot
This page has not been fully proofread.
२००
तत्त्वोपदेशः ।
वाच्यार्थस्यैकदेशं च परित्यज्यैकदेशकम् ।
या बोधयति सा ज्ञेया तृतीया भागलक्षणा ॥ ३७ ॥
सोऽयं विप्र इदं वाक्यं बोधयत्यादितस्तथा ।
तत्कालत्वविशिष्टं च तथैतत्कालसंयुतम् ॥ ३८ ॥
अतस्तयोर्विरुद्धं तत्तत्कालत्वादिधर्मकम् ।
त्यक्त्वा वाक्यं यथा विप्रपिण्डं बोधयतीरितम् ॥ ३९ ॥
तथैव प्रकृते तत्त्वमसीत्यव श्रुतौ शृणु ।
प्रत्यक्त्वादीन्परित्यज्य जीवधर्माम्त्वमः पदात् ॥ ४० ॥
सर्वज्ञत्वपरोक्षादीन्परित्यज्य ततः पदात् ।
शुद्धं कूटस्थमद्वैतं बोधयत्यादरात्परम् ॥ ४१ ॥
तत्त्वमो पदयोरैक्यमेव तत्त्वममीत्यलम् ।
इत्थमैक्यावबोधेन सम्यग्ज्ञानं दृढं नयैः ॥ ४२ ॥
अहं ब्रह्मेति विज्ञानं यस्य शोकं तरत्यसौ ।
आत्मा प्रकाशमानोऽपि महावाक्यैस्तथैकता ॥ ४३ ॥
तत्वमोर्बोध्यतेऽथापि पौर्वापर्यानुसारतः ।
तथापि शक्यते नैव श्रीगुरोः करुणां विना ॥ ४४ ॥