This page has not been fully proofread.

तत्त्वोपदेशः ।
 
अयं सः सोऽयमितिवत्संबन्धो भवति द्वयोः ।
 
प्रत्यक्त्वं सद्वितीयत्वं परोक्षत्वं च पूर्णता ॥ २९ ॥
 
परस्परविरुद्धं स्यात्ततो भवति लक्षणा ।
 
लक्ष्यलक्षण संबन्धः पदार्थप्रत्यगात्मनोः ॥ ३० ॥
 
मानान्तरोपरोधाश्च मुख्यार्थस्यापरिग्रहे ।
मुख्यार्थस्याविनाभूतं प्रवृत्तिर्लक्षणोच्यते ॥ ३१ ॥
 
त्रिविधा लक्षणा ज्ञेया जहत्यजती तथा ।
अन्योभयात्मिका ज्ञेया तत्राद्या नैव संभवेत् ॥ ३२ ॥
 
वाच्यार्थमखिलं त्यक्त्वा वृत्तिः स्याद्या तदन्विते ।
गङ्गायां घोष इतिवज्जहती लक्षणा हि सा ॥ ३३ ॥
 
वाच्यार्थस्यैकदेशस्य प्रकृते त्याग इष्यते ।
जहती संभवेन्नैव संप्रदायविरोधत ॥ ३४ ॥
 
वाच्यार्थमपरित्यज्य वृत्तिरन्यार्थके तु या ।
कथितेयमजहती शोणोऽयं धावतीतिवत् ॥ ३५ ॥
 
न संभवति साप्यत्र वाच्यार्थेऽतिविरोधत: ।
विरोधांशपरित्यागो दृश्यते प्रकृते यतः ॥ ३६ ॥
 
१९९