2026-03-22 03:16:38 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१९८
तत्त्वोपदेशः ः ।
।</ignore>
<verse>अतो हि तस्त्त्वमस्यादिवेदवाक्यं प्रमाणतः ।
ब्रह्मणोऽस्ति यया युक्त्या सास्माभिः संप्रकीर्त्यते ॥ २१ ॥
</verse>
<verse>शोधित ते त्वंपदार्थे हि तत्त्वमस्यादि चिन्तितम् ।
संभवेन्नान्यथा तम्माच्छोधनं कृतमादितः ॥ २२ ॥
</verse>
<verse>देहेन्द्रियादिधर्मान्यः स्वात्मन्यारोपयन्मृषा ।
कर्तृत्वाद्यभिमानी च वाच्यार्थस्त्वंपदस्य सः ॥ २३ ॥
</verse>
<verse>देहेन्द्रियादिसाक्षी यन्स्तेभ्यो भाति विलक्षणः ।
स्वयं बोधस्वरूपत्वाल्लक्ष्यार्थस्त्वंपदस्यस:सः ॥ २४ ॥
</verse>
<verse>वेदान्तवाक्यसंवेद्यविश्वातीताक्षराद्वयम् ।
विशुद्धं यत्स्वसंवेद्यं लक्ष्यार्थस्तत्पदस्य सः ॥ २५ ॥
</verse>
<verse>सामानाधिकरण्यं हि पदयोस्तत्व मोर्द्वयोः ।
संबन्धस्तेन वेदान्तैर्ब्रह्मैक्यं प्रतिपाद्यते ॥ २६।
॥</verse>
<verse>भिन्नप्रवृत्तिहेतुत्वे पदयोरेकवस्तुनि ।
वृत्तित्वं यत्तथैवैक्यं विभक्त्यन्तकयोस्तयोः ॥ २७ ॥
</verse>
<verse>सामानाधिकरण्यं तत्संप्रदायिभिरीरितम् ।
तथा पदार्थयोरेव विशेषणविशेष्यता ॥ २८ ॥
</verse>
</page>
<ignore>१९८
<verse>अतो हि त
ब्रह्मणोऽस्ति यया युक्त्या सास्माभिः संप्रकीर्त्यते ॥ २१ ॥
<verse>शोधि
संभवेन्नान्यथा तम्माच्छोधनं कृतमादितः ॥ २२ ॥
<verse>देहेन्द्रियादिधर्मान्यः स्वात्मन्यारोपयन्मृषा ।
कर्तृत्वाद्यभिमानी च वाच्यार्थस्त्वंपदस्य सः ॥ २३ ॥
<verse>देहेन्द्रियादिसाक्षी य
स्वयं बोधस्वरूपत्वाल्लक्ष्यार्थस्त्वंपदस्य
<verse>वेदान्तवाक्यसंवेद्यविश्वातीताक्षराद्वयम् ।
विशुद्धं यत्स्वसंवेद्यं लक्ष्यार्थस्तत्पदस्य सः ॥ २५ ॥
<verse>सामानाधिकरण्यं हि पदयोस्तत्व मोर्द्वयोः ।
संबन्धस्तेन वेदान्तैर्ब्रह्मैक्यं प्रतिपाद्यते ॥ २६
<verse>भिन्नप्रवृत्तिहेतुत्वे पदयोरेकवस्तुनि ।
वृत्तित्वं यत्तथैवैक्यं विभक्त्यन्तकयोस्तयोः ॥ २७ ॥
<verse>सामानाधिकरण्यं तत्संप्रदायिभिरीरितम् ।
तथा पदार्थयोरेव विशेषणविशेष्यता ॥ २८ ॥
</page>