This page has not been fully proofread.

१९८
 
तत्त्वोपदेशः ः ।
 
अतो हि तस्वमस्यादिवेदवाक्यं प्रमाणतः ।
 
ब्रह्मणोऽस्ति यया युक्त्या सास्माभिः संप्रकीर्त्यते ॥ २१ ॥
 
शोधित पदार्थे हि तत्त्वमस्यादि चिन्तितम् ।
संभवेन्नान्यथा तम्माच्छोधनं कृतमादितः ॥ २२ ॥
 
देहेन्द्रियादिधर्मान्यः स्वात्मन्यारोपयन्मृषा ।
कर्तृत्वाद्यभिमानी च वाच्यार्थस्त्वंपदस्य सः ॥ २३ ॥
 
देहेन्द्रियादिसाक्षी यन्तेभ्यो भाति विलक्षणः ।
स्वयं बोधस्वरूपत्वाल्लक्ष्यार्थस्त्वंपदस्य स: ॥ २४ ॥
 
वेदान्तवाक्यसंवेद्यविश्वातीताक्षराद्वयम् ।
 
विशुद्धं यत्स्वसंवेद्यं लक्ष्यार्थस्तत्पदस्य सः ॥ २५ ॥
 
सामानाधिकरण्यं हि पदयोस्तत्व मोर्द्वयोः ।
संबन्धस्तेन वेदान्तैर्ब्रह्मैक्यं प्रतिपाद्यते ॥ २६ ।
 
भिन्नप्रवृत्तिहेतुत्वे पदयोरेकवस्तुनि ।
 
वृत्तित्वं यत्तथैवैक्यं विभक्त्यन्तकयोस्तयोः ॥ २७ ॥
 
सामानाधिकरण्यं तत्संप्रदायिभिरीरितम् ।
 
तथा पदार्थयोरेव विशेषणविशेष्यता ॥ २८ ॥