This page has been fully proofread once and needs a second look.

<page>
<ignore>
तत्त्वोपदेशः ।
 
१९७</ignore>
<verse>
सुप्तौ देहाद्यभावेऽपि साक्षी तेषां भवान्यत: ।
तः ।
स्वानुभूतिस्वरूपत्वान्नान्यस्तम्यास्ति भासकः ॥ १३ ॥
 
१९.
 
</verse>
<verse>
प्रमाणं बोधयन्तं तं बोधं मानेन ये जनाः ।

बुभुत्स्यन्ते त एधोभिर्दग्धुं वाञ्छन्ति पावकम् ॥ १४ ॥
 
</verse>
<verse>
विश्वमात्मानुभवति तेनासौ नानुभूयते ।
 

विश्व प्रकाशयत्यात्मा तेनासौ न प्रकाश्यते ॥ १५ ॥
 
</verse>
<verse>
ईदृशं तादृशं नैतन्न परोक्षं सदेव यत् ।
 

तद्ब्रह्म त्वं न देहादिदृश्यरूपोऽसि सर्वदृक् ॥ १६ ॥
 
</verse>
<verse>
दंत्वेनैव यद्भाति सर्वं तच्च निषिध्यते ।
 

अवाच्यतत्त्वमनिदं न वेद्यं स्वप्रकाशतः ॥ १७ ॥
 
</verse>
<verse>
सत्यं ज्ञानमनन्तं च ब्रह्मलक्षणमुच्यते ।

सत्यत्वाज्ज्ञानरूपत्वादनन्तत्वात्त्वमेव हि ॥ १८ ॥
 
</verse>
<verse>
सति देहाद्युपाधौ स्याज्जीवस्तस्य नियामक: ।
कः ।
ईश्वरः शक्त्युपाधित्वाद्द्वयोर्बाधे स्वयंप्रभः ॥ १९ ॥
 
</verse>
<verse>
अपेक्ष्यतेऽखिलैर्मानैर्न यन्मानमपेक्षते ।
 

वेदवाक्यं प्रमाणं तद्ब्रह्मात्मावगतौ मतम् ॥ २० ॥
 
</verse>
</page>