2026-02-24 05:33:24 by ambuda-bot
This page has not been fully proofread.
तत्त्वोपदेशः ।
सुप्तौ देहाद्यभावेऽपि साक्षी तेषां भवान्यत: ।
स्वानुभूतिस्वरूपत्वान्नान्यस्तम्यास्ति भासकः ॥ १३ ॥
१९.
प्रमाणं बोधयन्तं तं बोधं मानेन ये जनाः ।
बुभुत्स्यन्ते त एधोभिर्दग्धुं वाञ्छन्ति पावकम् ॥ १४ ॥
विश्वमात्मानुभवति तेनासौ नानुभूयते ।
विश्व प्रकाशयत्यात्मा तेनासौ न प्रकाश्यते ॥ १५ ॥
ईदृशं तादृशं नैतन्न परोक्षं सदेव यत् ।
तद्ब्रह्म त्वं न देहादिदृश्यरूपोऽसि सर्वदृक् ॥ १६ ॥
इत्वेनैव यद्भाति सर्वं तच निषिध्यते ।
अवाच्यतत्त्वमनिदं न वेद्यं स्वप्रकाशतः ॥ १७ ॥
सत्यं ज्ञानमनन्तं च ब्रह्मलक्षणमुच्यते ।
सत्यत्वाज्ज्ञानरूपत्वादनन्तत्वात्वमेव हि ॥ १८ ॥
सति देहाद्युपाधौ स्याज्जीवस्तस्य नियामक: ।
ईश्वरः शक्त्युपाधित्वाद्वयोर्बाधे स्वयंप्रभः ॥ १९ ॥
अपेक्ष्यतेऽखिलैर्मानैर्न यन्मानमपेक्षते ।
वेदवाक्यं प्रमाणं तद्ब्रह्मात्मावगतौ मतम् ॥ २० ॥