This page has been fully proofread once and needs a second look.

<page>
<ignore>
१९६
 
तत्त्वोपदेशः ।
 
</ignore>
<verse>
नानैतान्येकरूपस्त्वं भिन्नस्तेभ्यः कुतः शृणु ।

न चैकेन्द्रियरूपस्त्वं सर्वत्राहंप्रतीतितः ॥ ५ ॥
 
</verse>
<verse>
न तेषां समुदायोऽसि तेषामन्यतमस्य च ।

विनाशेऽप्यात्मधीस्तावदस्ति स्यान्नैवमन्यथा ॥ ६ ॥
 
</verse>
<verse>
प्रत्येकमपि तान्यात्मा नैव तत्र नयं शृणु ।

नानास्वामिकदेहोऽयं नश्येद्भिन्नमताश्रयः ॥ ७ ॥
 
</verse>
<verse>
नानात्माभिमतं नैव विरुद्धविषयत्वतः ।

स्वाम्यैक्ये तु व्यवस्था स्यादेकपार्थिवदेशवत् ॥ ८ ॥
 
</verse>
<verse>
न मनस्त्वं न वा प्राणो जडत्वादेव चैतयोः ।

गतमन्यत्र मे चित्तमित्यन्यत्वानुभूतितः ॥ ९ ॥
 
श्व
</verse>
<verse>क्षुत्
तृड्भ्यां पीडितः प्राणो ममायं चेति भेदतः ।

तयोर्द्रष्टा पृथक्ताभ्यां घटद्रष्टा घटाद्यथा ॥ १० ॥
 
</verse>
<verse>
सुप्तौ लीनास्ति या बोधे सर्वेवं व्याप्नोति देहकम् ।

चिच्छायया च संबद्धा न सा बुद्धिर्भवान्द्विज ॥ ११ ॥
 
</verse>
<verse>
नानारूपवती बोधे सुप्तौ लीनातिचश्वञ्चला ।
 

यतो दृगेकरूपस्त्वं पृथक्तस्य प्रकाशकः ॥ १२ ॥
 
</verse>
</page>