This page has not been fully proofread.

१९६
 
तत्त्वोपदेशः ।
 
नानैतान्येकरूपस्त्वं भिन्नस्तेभ्यः कुतः शृणु ।
न चैकेन्द्रियरूपत्वं सर्वत्राप्रतीतितः ॥ ५ ॥
 
न तेषां समुदायोऽसि तेषामन्यतमस्य च ।
विनाशेऽप्यात्मधीस्तावदस्ति स्यान्नैवमन्यथा ॥ ६ ॥
 
प्रत्येकमपि तान्यात्मा नैव तत्र नयं शृणु ।
नानास्वामिकदेहोऽयं नश्येद्भिन्नमताश्रयः ॥ ७ ॥
 
नानात्माभिमतं नैव विरुद्धविषयत्वतः ।
स्वाम्यैक्ये तु व्यवस्था स्यादेकपार्थिवदेशवत् ॥ ८ ॥
 
न मनस्त्वं न वा प्राणो जडत्वादेव चैतयोः ।
गतमन्यत्र मे चित्तमित्यन्यत्वानुभूतितः ॥ ९ ॥
 
श्वतृड्भ्यां पीडितः प्राणो ममायं चेति भेदतः ।
तयोर्द्रष्टा पृथक्ताभ्यां घटद्रष्टा घटाद्यथा ॥ १० ॥
 
सुप्तौ लीनास्ति या बोधे सर्वे व्याप्नोति देहकम् ।
चिच्छायया च संबद्धा न सा बुद्धिर्भवान्द्विज ॥ ११ ॥
 
नानारूपवती बोधे सुप्तौ लीनातिचश्वला ।
 
यतो गेकरूपस्त्वं पृथक्तस्य प्रकाशकः ॥ १२ ॥