This page has not been fully proofread.

प्रबोधसुधाकरः ।
 
आत्मानात्मविवेको नो देहस्य च विनाशिताज्ञानम् ।
एवं सति स्वमायुः प्राज्ञैरपि नीयते मिथ्या ॥ १५ ॥
 
आयुः क्षणलवमात्रं न लभ्यते हेमकोटिभिः कापि ।
तच्चेच्छति सर्वे मृषा ततः काधिका हानिः ॥ १६ ॥
 
नरदेहातिक्रमणात्प्राप्तौ पश्वादिदेहानाम् ।
स्वतनोरप्यज्ञाने परमार्थस्यात्र का वार्ता ॥ १७ ॥
 
सततं प्रवाह्यमानैर्वृषभैरश्वैः खरैर्गजैर्महिषैः ।
हा कष्टं क्षुत्क्षामैः श्रान्तैन शक्यते वक्तुम् ॥ १८ ॥
 
रुधिरत्रिधातुमज्जामेदोमांसास्थिसंहतिर्देहः ।
 
स बहिस्त्वचा पिनद्धस्तस्मान्नो भक्ष्यते काकैः ॥ १९ ॥
 
नासाप्राद्वदनाद्वा कर्फ मलं पायुतो विसृजन् ।
स्वयमेवैति जुगुप्सामन्तः प्रसृतं च नो वेत्ति ॥ २० ॥
पथि पतितमस्थि दृष्ट्वा स्पर्शभयादन्यमार्गतो याति ।
नो पश्यति निजदेहं चास्थिसहस्रावृतं परितः ॥ २१ ॥
 
केशावधि नखराप्रादिदमन्तः पूतिगन्धसंपूर्णम् ।
 
बहिरपि चागरुचन्दनकर्पूराद्यैर्विलेपयति ॥ २२ ॥
 
3