This page has been fully proofread once and needs a second look.

<page>
<subtitle>
॥ श्रीः ॥
 
</subtitle>
<title>
॥ तत्त्वोपदेशः ॥
 
</title>
<verse>
तत्त्वंपदार्थशुद्ध्यर्थं गुरुः शिष्यं वचोऽब्रवीत्

वाक्ये तत्त्वमसीत्यत्र त्वंपदार्थं विवेचय ॥ १ ॥
 
</verse>
<verse>
न त्वं देहोऽसि दृश्यत्वादुपजात्यादिमत्त्वतः ।

भौतिकत्वादशुद्धत्वादनित्यत्त्वा<error>त्त्वा</error><fix>त्वा</fix>त्तथैव च ॥ २ ॥
 
</verse>
<verse>
अदृश्यांयो रूपहीनस्त्वं जातिहीनानोऽप्यभौतिकः ।

शुद्धनित्योऽसि दृग्रूपो घटो यद्वन्न दृग्भवेत् ॥ ३ ॥
 
</verse>
<verse>
न भवानिन्द्रियाण्येषां करणत्वेन या श्रुतिः ।

प्रेरकस्त्वं पृथक्तेभ्यो न कर्ता करणं भवेत् ॥ ४ ॥
 
</verse>
</page>