2026-02-24 05:33:23 by ambuda-bot
This page has not been fully proofread.
॥ श्रीः ॥
॥ तत्त्वोपदेशः ॥
तत्त्वंपदार्थशुद्धयर्थं गुरुः शिष्यं वचोऽब्रवीत्
वाक्ये तत्त्वमसीत्यत्र त्वंपदार्थ विवेचय ॥ १ ॥
न त्वं देहोऽसि दृश्यत्वादुपजात्यादिमत्त्वतः ।
भौतिकत्वादशुद्धत्वादनित्यत्त्वात्तथैव च ॥ २ ॥
अदृश्यां रूपहीनस्त्वं जातिहीनाऽप्यभौतिकः ।
शुद्धनित्योऽसि पो घटो यद्वन्न दृग्भवेत् ॥ ३ ॥
न भवानिन्द्रियाण्येषां करणत्वेन या श्रुतिः ।
प्रेरकस्त्वं पृथक्तेभ्यो न कर्ता करणं भवेत् ॥ ४ ॥