This page has been fully proofread once and needs a second look.

<page>
<ignore>
१९०
 
पञ्चीकरणम्
 
</ignore>
<p>
इत्युच्यते । तदुभयाभिमान्यात्मा तैजसः । एतत्रयमुकारः ॥
 
</p>
<p>
शरीरद्वयकारणमात्माज्ञानं साभासमव्याकृतमित्युच्यते ।

एतत्कारणशरीरमात्मनः । तच्च न सत् , नासत् । नापि

सदसत् । न भिन्नम् , नाभिन्नम् , नापि भिन्नाभिन्नं कुत-

श्चित् । न निरवयवम् , न सावयवम् ,
नोभयम् । किं तु
 
"
 
"
 
श्चित् । न निरवयवम्, न सावयवम्,

केवलब्रह्मैकत्वज्ञानापनोद्यम् । सर्वप्रकारज्ञानोपसंहारे बुद्धे:
धेः
कारणात्मनावस्थानं सुषुप्ति:तिः । तदुभयाभिमान्यात्मा प्राज्ञः ।

एतत्रयं मकारः ॥
 
</p>
<p>
अकार उकारे, उकारो मकारे, मकार ओंकारेऽहम्येव ॥
</p>
<p>
अहमात्मा साक्षी केवलश्चिन्मात्रस्वरूपः, नाज्ञानम्,
,
नापि तत्कार्यम् । किं तु नित्यशुद्धबुद्धमुक्त सत्यस्वभावं पर-

मानन्दाद्वयं प्रत्यग्भूतचैतन्यं ब्रह्मैवाहमस्मीत्यभेदेनावस्थानं

समाधिः । '<quote>&apos;तत्त्वमसि' ' &apos;</quote> <quote>&apos;ब्रह्माहमस्मि' '&apos;</quote> <quote>&apos;प्रज्ञानमानन्दं

ब्रह्म' '&apos;</quote> <quote>&apos;अयमात्मा ब्रह्म'&apos;</quote> इत्यादिश्रुतिभ्यः ॥ इति पञ्ची-

करणं भवति ॥
 
</p>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ
 

पथ्चीकरणं संपूर्णम् ॥
 
</trailer>
</page>