This page has not been fully proofread.

१९०
 
पञ्चीकरणम्
 
इत्युच्यते । तदुभयाभिमान्यात्मा तैजसः । एतत्रयमुकारः ॥
 
शरीरद्वयकारणमात्माज्ञानं साभासमव्याकृतमित्युच्यते ।
एतत्कारणशरीरमात्मनः । तच्च न सत्, नासत् । नापि
सदसत् । न भिन्नम् नाभिन्नम् नापि भिन्नाभिन्नं कुत-
नोभयम् । किंतु
 
"
 
"
 
श्चित् । न निरवयवम्, न सावयवम्,
केवलब्रह्मैकत्वज्ञानापनोद्यम् । सर्वप्रकारज्ञानोपसंहारे बुद्धे:
कारणात्मनावस्थानं सुषुप्ति: । तदुभयाभिमान्यात्मा प्राज्ञः ।
एतत्रयं मकारः ॥
 
अकार उकारे, उकारो मकारे, मकार ओंकारेऽहम्येव ॥
अहमात्मा साक्षी केवलश्चिन्मात्रस्वरूपः, नाज्ञानम्,
नापि तत्कार्यम् । किं तु नित्यशुद्धबुद्धमुक्त सत्यस्वभावं पर-
मानन्दाद्वयं प्रत्यग्भूतचैतन्यं ब्रह्मैवाहमस्मीत्यभेदेनावस्थानं
समाधिः । 'तत्त्वमसि' ' ब्रह्माहमस्मि' 'प्रज्ञानमानन्दं
ब्रह्म' 'अयमात्मा ब्रह्म' इत्यादिश्रुतिभ्यः ॥ इति पञ्ची-
करणं भवति ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
 
पथ्चीकरणं संपूर्णम् ॥