This page has been fully proofread once and needs a second look.

॥ 30 ॥

<page>
<subtitle>॥ श्रीः ॥</subtitle>
<title>
॥ पञ्चीकरणम् ॥

</title>

अथातः परमहंसानां समाधिविधिं व्याख्यास्यामः ॥

सच्छब्दवाच्यमविद्याशबलं ब्रह्म । ब्रह्मणोऽव्यक्तम् । अ-

व्यक्तान्महत् । महतोऽहंकारः । अहंकारात्पञ्चतन्मात्राणि ।

पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि । पञ्चमहाभूतेभ्योऽखिलं

जगत् ॥

पञ्चानां भूतानामेकैकं द्विधा विभज्य स्वार्धभागं विहा-
या

यार्ध
भागं चतुर्धा विभज्येतरेषु योजिते पञ्चीकरणं माया-

रूपदर्शनमध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते ॥

ओं पञ्चीकृतपञ्चमहाभूतानि तत्कार्येयं सर्वं विराडित्यु -

च्यते । एतत्स्थूलशरीरमात्मनः । इन्द्रियैरर्थोपलब्धिर्जागरि-

तम् । एतदुभयाभिमान्यात्मा विश्वः । एतत्रयमकारः ॥

अपञ्चीकृतपञ्चमहाभूतानि पञ्चतन्मात्राणि, तत्कार्य च
यं च
पञ्चप्राणा:णाः दशेन्द्रियाणि मनो बुद्धिश्चेति सप्तदशकं लिङ्
गं
भौतिकं हिरण्यगर्भ इत्युच्यते । एतत्सूक्ष्मशरीरमात्मनः ।

करणेषूपसंहृतेषु जागरितसंस्कारजः प्रत्यय:यः सविषय:यः स्वप्न

</page>