This page has not been fully proofread.

॥ 30 ॥
 
॥ पञ्चीकरणम् ॥
 
अथातः परमहंसानां समाधिविधिं व्याख्यास्यामः ॥
 
सच्छब्दवाच्यमविद्याशबलं ब्रह्म । ब्रह्मणोऽव्यक्तम् । अ-
व्यक्तान्महत् । महतोऽहंकारः । अहंकारात्पञ्चतन्मात्राणि ।
पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि । पञ्चमहाभूतेभ्योऽखिलं
 
जगत् ॥
 
पञ्चानां भूतानामेकैकं द्विधा विभज्य स्वार्धभागं विहा-
याभागं चतुर्धा विभज्येतरेषु योजिते पञ्चीकरणं माया-
रूपदर्शनमध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते ॥
 
ओं पञ्चीकृतपञ्चमहाभूतानि तत्कार्ये सर्व विराडित्यु -
च्यते । एतत्स्थूलशरीरमात्मनः । इन्द्रियैरर्थोपलब्धिर्जागरि-
तम् । एतदुभयाभिमान्यात्मा विश्वः । एतत्रयमकारः ॥
 
अपञ्चीकृतपञ्चमहाभूतानि पञ्चतन्मात्राणि, तत्कार्य च
पञ्चप्राणा: दशेन्द्रियाणि मनो बुद्धिश्चेति सप्तदशकं लिङ्ग
भौतिकं हिरण्यगर्भ इत्युच्यते । एतत्सूक्ष्मशरीरमात्मनः ।
करणेषूपसंहृतेषु जागरितसंस्कारजः प्रत्यय: सविषय: स्वप्न