2026-03-06 02:31:17 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>प्रबोधसुधाकरः ।
</ignore>
<verse>देहः किमात्मकोऽयं कः संबन्धोऽस्य वा विषयैः ।
एवं विचार्यमाणेऽहंताममते निवर्तेते ॥ ७ ॥
</verse>
<verse>स्त्रीपुंसोः संयोगात्संपाते शुक्रशोणितयोः ।
प्रविशञ्जीवः शनकैः स्वकर्मणा देहमाधत्ते ॥ ८ ॥
</verse>
<verse>मातृगुरूदरदर्यायां कफमूत्रपुरीषपूर्णायाम् ।
जठराग्निज्वालाभिर्नवमासं पच्यते जन्तुः ॥ ९ ॥
</verse>
<verse>दैवात्प्रसूतिसमये शिशुस्तिरश्चीनतां यदा याति ।
शस्त्रैर्विखण्ड्य स तदा बहिरिह निष्कास्यतेऽतिबलात्
<fix>॥ १० ॥</fix></verse>
<verse>अथवा यन्त्रच्छिद्राद्यदा तु निःसार्यते प्रबलैः ।
प्रसवसमीरैश्च तदा यः क्लेशः सोऽप्यनिर्वाच्यः ॥ ११
॥</verse>
<verse>आधिव्याधिवियोगात्मीयविपत्कलहदीर्घदारिद्र्यैः ।
जन्मानन्तरमपि यः क्लेशः किं शक्यते वक्तुम् ॥ १२
<fix>॥</fix></verse>
<verse>नरपशुविहंगतिर्यग्योनीनां चतुरशीतिलक्षाणाम् ।
कर्मनिबद्धो जीवः परिभ्रमन्यातना भुङ्क्ते ॥ १३ ॥
</verse>
<verse>चरमस्तवत्र नृदेहस्तत्रोज्जन्मान्वयोत्पत्तिः ।
स्वकुलाचारविचार:रः श्रुतिप्रचारश्च तत्रापि ॥ १४ ॥
</verse>
</page>
<ignore>प्रबोधसुधाकरः ।
<verse>देहः किमात्मकोऽयं कः संबन्धोऽस्य वा विषयैः ।
एवं विचार्यमाणेऽहंताममते निवर्तेते ॥ ७ ॥
<verse>स्त्रीपुंसोः संयोगात्संपाते शुक्रशोणितयोः ।
प्रविशञ्जीवः शनकैः स्वकर्मणा देहमाधत्ते ॥ ८ ॥
<verse>मातृगुरूदरदर्
जठराग्निज्वालाभिर्नवमासं पच्यते जन्तुः ॥ ९ ॥
<verse>दैवात्प्रसूतिसमये शिशुस्तिरश्चीनतां यदा याति ।
शस्त्रैर्विखण्ड्य स तदा बहिरिह निष्कास्यतेऽतिबलात्
<verse>अथवा यन्त्रच्छिद्राद्यदा तु निःसार्यते प्रबलैः ।
प्रसवसमीरैश्च तदा यः क्लेशः सोऽप्यनिर्वाच्यः ॥ ११
<verse>आधिव्याधिवियोगात्मीयविपत्कलहदीर्घदारिद्र्यैः ।
जन्मानन्तरमपि यः क्लेशः किं शक्यते वक्तुम् ॥ १२
<verse>नरपशुविहंगतिर्यग्योनीनां चतुरशीतिलक्षाणाम् ।
कर्मनिबद्धो जीवः परिभ्रमन्यातना भुङ्क्ते ॥ १३ ॥
<verse>चरमस्त
स्वकुलाचारविचा
</page>