This page has not been fully proofread.

प्रबोधसुधाकरः ।
 
देहः किमात्मकोऽयं कः संबन्धोऽस्य वा विषयैः ।
एवं विचार्यमाणेऽहंताममते निवर्तेते ॥ ७ ॥
 
स्त्रीपुंसोः संयोगात्संपाते शुक्रशोणितयोः ।
प्रविशञ्जीवः शनकैः स्वकर्मणा देहमाधत्ते ॥ ८ ॥
 
मातृगुरूदरदर्या कफमूत्रपुरीषपूर्णायाम् ।
जठराग्निज्वालाभिर्नवमासं पच्यते जन्तुः ॥ ९ ॥
 
दैवात्प्रसूतिसमये शिशुस्तिरचीनतां यदा याति ।
शस्त्रैर्विखण्ड्य स तदा बहिरिह निष्कास्यतेऽतिबलात्
 
अथवा यन्त्रच्छिद्राद्यदा तु निःसार्यते प्रबलैः ।
प्रसवसमीरैश्च तदा यः क्लेशः सोऽप्यनिर्वाच्यः ॥ ११
 
आधिव्याधिवियोगात्मीयविपत्कलहदीर्घदारिद्र्यैः ।
जन्मानन्तरमपि यः क्लेशः किं शक्यते वक्तुम् ॥ १२
 
नरपशुविहंगतिर्यग्योनीनां चतुरशीतिलक्षाणाम् ।
कर्मनिबद्धो जीवः परिभ्रमन्यातना भुङ्क्ते ॥ १३ ॥
 
चरमस्तव नृदेहस्तत्रोज्जन्मान्वयोत्पत्तिः ।
 
स्वकुलाचारविचार: श्रुतिप्रचारश्च तत्रापि ॥ १४ ॥