2026-02-24 05:32:13 by ambuda-bot
This page has not been fully proofread.
॥ BT: ॥
॥ प्रबोधसुधाकरः ॥
देहनिन्दाप्रकरणम् ।
नित्यानन्दैकरसं सच्चिन्मात्रं स्वयंज्योतिः ।
पुरुषोत्तममजमीशं वन्दे श्रीयादवाधीशम् ॥ १ ।
यं वर्णयितुं साक्षाच्छ्रुतिरपि मूकेव मौनमाचरति ।
सोऽस्माकं मनुजानां किं वाचां गोचरो भवति ॥ २ ॥
यद्यप्येवं विदितं तथापि परिभाषितो भवेदेव ।
अध्यात्मशास्त्र सारैर्हरिचिन्तनकीर्तनाभ्यासैः ॥ ३ ॥
क्लृप्तैर्बहुभिरुपायैरभ्यासज्ञानभक्त्याद्यैः
पुंसो विना विरागं मुक्तेरधिकारिता न स्यात् ॥ ४ ॥
वैराग्यमात्मबोधो भक्तिश्चेति त्रयं गदितम् ।
मुक्तेः साधनमादौ तत्र विरागो वितृष्णता प्रोक्ता ॥ ५ ॥
सा चाहंममताभ्यां प्रच्छन्ना सर्वदेहेषु ।
तत्राहंता देहे ममता भार्यादिविषयेषु ॥ ६ ॥