2026-05-03 02:25:44 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>हस्तामलकीयभाष्यम् ।
१६९
एतस्मादा-
</ignore>
<p merge-next="true">च विरोधादेव न युक्तम् । तयोरपि रूपान्तराभ्यां भिन्ना-
भिन्नत्वाभ्युपगमे अनवस्थापात इत्यलमतिविस्तरेण । तस्मा-
न्नात्मा सर्वथा चिद्धर्मा; किं तर्हि ? चित्स्वरूप एवेति ।
एतेन सदानन्दयोरपि आत्मस्वरूपत्वं व्याख्यातम् । नित्यश्व
च
आत्मा, सदकारणवत्त्वात् परमाणुवत् ; सन् आत्मा, अहम-
स्मीति प्रतीतेः । अकारणवांश्च न हि अस्य कारणं
वस्तु प्रत्यक्षादिभिरुपलभ्यते, नापि श्रूयते ; किं तु त्रैलोक्यै -
-
ककारणता हि आत्मनः श्रूयते' 'तस्माद्वा
एतस्मादा-
त्मन आकाशः संभूत:'' इत्यादिश्रुतिभ्यः । न त्वात्मनो -
-
ऽपि कारणान्तरम् । अतः सदकारणवस्त्वात् नित्य आत्मेति
सिद्धम् । तस्मात् साधूक्तं नित्यबोधस्वरूपमिति । तत्रैव
दृष्टान्तमाह —--- अग्न्युष्णवदिति । यथा उष्णत्वमग्नेर्न व्य-
तिरिच्यते । व्यतिरेके हि कदाचिदग्मेनेरन्यत्राप्युपलभ्ये-
त —
त--- यथा पुरुषाद्दण्डादि ; न चैवमस्ति ; तस्मादग्निस्व-
रूपमेव अग्नेरुष्णत्वम् । एवमात्मनोऽपि चैतन्यं स्वरूपमेवे -
-
त्यर्थः। तथा च उक्तम्–''निरंशत्वाद्विभुत्वाच्च तथानश्वरभा-
वत: । ब्रह्मव्योम्नोर्न भेदोऽस्ति चैतन्यं ब्रह्मणोऽधिकम् '
'
इति । यच्चोक्तं मनश्चक्षुरादीनां प्रवृत्तौ किमर्थमधिष्ठाता
इष्यते, स्वयमेव कस्मान्न प्रवर्तन्ते इति, तत्राह --- अबोधा-
</p>
</page>
<ignore>हस्तामलकीयभाष्यम् ।
एतस्मादा-
<p merge-next="true">च विरोधादेव न युक्तम् । तयोरपि रूपान्तराभ्यां भिन्ना-
भिन्नत्वाभ्युपगमे अनवस्थापात इत्यलमतिविस्तरेण । तस्मा-
न्नात्मा सर्वथा चिद्धर्मा; किं तर्हि ? चित्स्वरूप एवेति ।
एतेन सदानन्दयोरपि आत्मस्वरूपत्वं व्याख्यातम् । नित्यश्
आत्मा, सदकारणवत्त्वात् परमाणुवत् ; सन् आत्मा, अहम-
स्मीति प्रतीतेः । अकारणवांश्च न हि अस्य कारणं
वस्तु प्रत्यक्षादिभिरुपलभ्यते, नापि श्रूयते ; किं तु त्रैलोक्यै
ककारणता हि आत्मनः श्रूयते
त्मन आकाशः संभूत:
ऽपि कारणान्तरम् । अतः सदकारणवस्त्वात् नित्य आत्मेति
सिद्धम् । तस्मात् साधूक्तं नित्यबोधस्वरूपमिति । तत्रैव
दृष्टान्तमाह
तिरिच्यते । व्यतिरेके हि कदाचिदग्
त —
त--- यथा पुरुषाद्दण्डादि ; न चैवमस्ति ; तस्मादग्निस्व-
रूपमेव अग्नेरुष्णत्वम् । एवमात्मनोऽपि चैतन्यं स्वरूपमेवे
त्यर्थः। तथा च उक्तम्–
वत: । ब्रह्मव्योम्नोर्न भेदोऽस्ति चैतन्यं ब्रह्मणोऽधिकम्
इति । यच्चोक्तं मनश्चक्षुरादीनां प्रवृत्तौ किमर्थमधिष्ठाता
इष्यते, स्वयमेव कस्मान्न प्रवर्तन्ते इति, तत्राह
</page>