Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
हस्तामलकीयभाष्यम् ।
 
१६९
 
एतस्मादा-
 
</ignore>
<p merge-next="true">
च विरोधादेव न युक्तम् । तयोरपि रूपान्तराभ्यां भिन्ना-

भिन्नत्वाभ्युपगमे अनवस्थापात इत्यलमतिविस्तरेण । तस्मा-

न्
नात्मा सर्वथा चिद्धर्मा; किं तर्हि ? चित्स्वरूप एवेति ।

एतेन सदानन्दयोरपि आत्मस्वरूपत्वं व्याख्यातम् । नित्यश्

आत्मा, सदकारणवत्त्वात् परमाणुवत् ; सन् आत्मा, अहम-

स्मीति प्रतीतेः । अकारणवांश्च न हि अस्य कारणं

वस्तु प्रत्यक्षादिभिरुपलभ्यते, नापि श्रूयते ; किं तु त्रैलोक्यै -
-
ककारणता हि आत्मनः श्रूयते ' &apos;तस्माद्वा
एतस्मादा-
त्मन आकाशः संभूत:'&apos; इत्यादिश्रुतिभ्यः । न त्वात्मनो -
-
ऽपि कारणान्तरम् । अतः सदकारणवस्त्वात् नित्य आत्मेति

सिद्धम् । तस्मात् साधूक्तं नित्यबोधस्वरूपमिति । तत्रैव

दृष्टान्तमाह--- अग्न्युष्णवदिति । यथा उष्णत्वमग्नेर्न व्य-

तिरिच्यते । व्यतिरेके हि कदाचिदग्मेनेरन्यत्राप्युपलभ्ये-
त —

त---
यथा पुरुषाद्दण्डादि ; न चैवमस्ति ; तस्मादग्निस्व-

रूपमेव अग्नेरुष्णत्वम् । एवमात्मनोऽपि चैतन्यं स्वरूपमेवे -
-
त्यर्थः। तथा च उक्तम्– '&apos;निरंशत्वाद्विभुत्वाच्च तथानश्वरभा-

वत: । ब्रह्मव्योम्नोर्न भेदोऽस्ति चैतन्यं ब्रह्मणोऽधिकम् '
&apos;
इति । यच्चोक्तं मनश्चक्षुरादीनां प्रवृत्तौ किमर्थमधिष्ठाता

इष्यते, स्वयमेव कस्मान्न प्रवर्तन्ते इति, तत्राह --- अबोधा-
 
</p>
</page>