2026-03-26 03:50:18 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१६८
हस्तामलकीयभाष्यम् ।
1
---
</ignore>
<p merge-next="true">पिण्डान्तरे प्रत्यभिज्ञायमानत्वात् भेदेनावगम्यते; अतः प्र-
त्यक्षेणैव भेदाभेदयोः प्रतीयमानत्वात् अविरोध इति--- नैत-
त्साधु मन्यामहे, प्रत्यक्षस्य अन्यथासिद्धत्वात् --- भिन्नमपि हि
वस्तु प्रत्यक्षेण अत्यन्तसंनिधानादिदोषात् अभिन्नवत्प्रतीयते-
--
यथा दीपज्वाला भिन्नापि कुतश्चित्कारणादभिन्नवत्प्रतिभा-
सन्ते, तथा अभिन्नमपि वस्तु भिन्नमिव प्रतिभासते --- यथा
एकस्माच्चन्द्राद्द्वितीयश्चन्द्र इति - अत:--- अतः प्रत्यक्षस्य अन्यथा -
-
सिद्धत्वात् न तेन प्रत्यक्षेण प्रमाणसिद्धस्य भेदाभेदविरो-
धस्य प्रतिक्षेपो युक्त इति । अथैवमुच्यते--- चैतन्यस्य द्वे रूपे
स्तः, आत्मस्वरूपता चैतन्यस्वरूपता चेति । तत्र आत्मस्वरू-
पतया आत्मनो न भिद्यते ; भिद्यते च चैतन्य स्वरूपतया ।
अतः उभयरूपाभ्यां भिन्नाभिन्नत्वमविरुद्धमिति--- तदपि न,
धर्मधर्मित्वाभावात् । तथा हि--- येन रूपेण तदभिन्नं न तेन
रूपेण धर्मत्वम् अभिन्नत्वादवोचाम । येन रूपेण भिन्नम्,
,
तेनापि न धर्मः, भिन्नत्वाद्वघटादिवदित्युक्तम् । यञ्च्चोक्तम्
उभयरूपाभ्यां भिन्नाभिन्नत्वमिति, तदपि विचारं न सहते ।
ते रूपे किं चैतन्याद्भिन्ने, अभिन्ने, भिन्नाभिन्ने वा । तत्र न
तावद्भिन्ने, भिन्नत्वे घटादिवद किंचित्करत्वात्; अभिन्नत्वे
चैतन्यमात्रमेवेति न ताभ्यां भिन्नाभिन्नत्वम् । भिन्नाभिन्नत्वं
-
</p>
</page>
<ignore>१६८
1
---
<p merge-next="true">पिण्डान्तरे प्रत्यभिज्ञायमानत्वात् भेदेनावगम्यते; अतः प्र-
त्यक्षेणैव भेदाभेदयोः प्रतीयमानत्वात् अविरोध इति--- नैत-
त्साधु मन्यामहे, प्रत्यक्षस्य अन्यथासिद्धत्वात्
वस्तु प्रत्यक्षेण अत्यन्तसंनिधानादिदोषात् अभिन्नवत्प्रतीयते-
यथा दीपज्वाला भिन्नापि कुतश्चित्कारणादभिन्नवत्प्रतिभा-
सन्ते, तथा अभिन्नमपि वस्तु भिन्नमिव प्रतिभासते
एकस्माच्चन्द्राद्द्वितीयश्चन्द्र इति
सिद्धत्वात् न तेन प्रत्यक्षेण प्रमाणसिद्धस्य भेदाभेदविरो-
धस्य प्रतिक्षेपो युक्त इति । अथैवमुच्यते--- चैतन्यस्य द्वे रूपे
स्तः, आत्मस्वरूपता चैतन्यस्वरूपता चेति । तत्र आत्मस्वरू-
पतया आत्मनो न भिद्यते ; भिद्यते च चैतन्य
अतः उभयरूपाभ्यां भिन्नाभिन्नत्वमविरुद्धमिति--- तदपि न,
धर्मधर्मित्वाभावात् । तथा हि--- येन रूपेण तदभिन्नं न तेन
रूपेण धर्मत्वम् अभिन्नत्वादवोचाम । येन रूपेण भिन्नम्
तेनापि न धर्मः, भिन्नत्वाद्
उभयरूपाभ्यां भिन्नाभिन्नत्वमिति, तदपि विचारं न सहते ।
ते रूपे किं चैतन्याद्भिन्ने, अभिन्ने, भिन्नाभिन्ने वा । तत्र न
तावद्भिन्ने, भिन्नत्वे घटादिवद