This page has been fully proofread once and needs a second look.

<page>
<ignore>
हस्तामलकीयभाष्यम् ।
 
१६७
 
</ignore>
<p merge-next=
"
 
true">आत्मनश्चैतन्यं भिन्नम् अभिन्नं वा भिन्नाभिन्नं वा ।

तत्र न तावद्भिन्नम्; भिन्नं चेत्, घटवदात्मधर्मत्वानुपपत्तेः ।

ननु घट: असंबन्धात् आत्मधर्मो न भवति, चैतन्यं तु

आत्मसंबन्धीति युक्तमात्मधर्मत्वम् इत्यपि न संबन्धानुप-

पत्तेः । संबन्धो हि तावत् संयोगो वा समवायो वा स्यात्,

संबन्धान्तरस्य अत्र असंभवात् । न तावत्संयोगः, तस्य द्रव्य-

मात्रधर्मत्वात्, अद्रव्यत्वाच्चैतन्यस्य । नापि समवायः, अन-

वस्थापातात् । समवायो हि संबद्धः समवायिनौ संबध्नाति,

असंबद्धो वा !? न तावदसंबद्ध:, घटादिवदकिंचित्करत्वात् ।

संबद्धश्चेत्, संयोगादेरभावेन समवायस्यापि समवायान्तर-

मभ्युपगन्तव्यम् । एवं परंपरापेक्षायाम् अनवस्थापात इति

यत्किंचिदेतत् । तस्माद्भिन्नत्वपक्षे धर्मधर्मिभाव:वः सर्वथा

नोपपद्यते । अभिन्नत्वपक्षे तु बोधस्य आत्मरूपत्वेन सुतरां

धर्मधर्मिभावो नास्त्येव । न हि तस्य तदेव धर्मो भवति
;
न हि शुकंक्लं शुकस्य धर्मोंक्लस्य धर्मो भवतीति । तस्मात् भिन्नाभिन्नत्व-

पक्ष एव अवशिष्यते । स च विरोधान्न युज्यते --- न ह्येक-

मेवैकस्मात् भिन्नमभिन्नं च भवितुमर्हति, विरोधात् ।

अथोच्यते--- प्रत्यक्षसिद्धत्वात् भेदाभेदौ अविरुद्धौ । तथाहि
 

--
- गौरियमिति पिण्डाव्यतिरेकेण गोत्वं प्रतीयते ; तदेव
 
;
 
</p>
</page>