This page has been fully proofread once and needs a second look.

<page>
<ignore>
१६६
 
हस्तामलकीयभाष्यम् ।
 
</ignore>
<p merge-next="true">
त्वम् ? बोधो हि नाम ज्ञानम् ; तश्च्च इन्द्रियार्थसंनिकर्षा-

दिना जायते समुत्पद्यते ; उत्पन्नं च ज्ञानं स्वकार्येण

संस्कारेण विरोधिना ज्ञानान्तरेण वा विनश्यति ; अतः

उत्पत्तिनाशधर्मवत्त्वात् न नित्यं भवितुमर्हति ; नापि

बोधस्वरूपत्वमात्मन उपपद्यते, नित्यत्वादात्मनः, अनित्य-

त्वाच्च बोधस्य ; न हि नित्यानित्ययोरेकस्वभावत्वम्, विरोधा-
तू

त्
इति । अत्रोच्यते --- बोधो हि नाम चैतन्यमभिप्रेतम् ;

न च ज्ञानं चैतन्यम्, जन्यज्ञानस्य ज्ञेयत्वेन घटादिवज्ज-

डत्वात् । ज्ञेयं हि ज्ञानम्, घटज्ञानं मे जातं पटज्ञानं मे

जातमिति साक्षादनुभूयमानत्वात् । अतः तस्य अनित्य-

त्वेन अनात्मम्स्वरूपत्वेऽपि, नित्यबोधस्वरूपत्वम् आत्मन

उपपद्यते । ननु आत्मन:नः चेतनत्वे किं प्रमाणमिति

चेत्, जगत्प्रकाश इति ब्रूमः ।
जगत् प्रकाशत इति

सर्वजनसिद्धम्; तत्र ज्ञानादीनां ज्ञेयत्वेन जडत्वात्,

आत्मप्रकाशेनैव जगत प्रकाशत इति निश्चितं भवति ।

आत्मा च स्वपरप्रकाशवान् सवितृप्रकाशवत्-
 
-
 
-- यथा
 

सविता स्वयं प्रकाशमानो जगदपि प्रकाशयति, तथा

आत्मापीति । अस्तु तर्हि चिद्धर्मा पुरुषः, कथमयं चित्स्व-

भाव इति; न धर्मधर्मिभावस्य अनुपपत्तेः । तथा हि-
 
--</p>
</page>