This page has been fully proofread once and needs a second look.

<page>
<ignore>
हस्तामलकीयभाष्यम् ।
 
१६५
 
</ignore>
<p>
संबन्धः । स कीदृश इत्याकाङ्क्षायामाह --- नित्योपलब्धि -
-
रिति । नित्या च असावुपलब्धिश्चेति नित्योपलब्धिः, सा

स्वरूपं यस्य स तथोक्तः । रविः आदित्यः यथा येन प्रकारेण

प्रकाशकत्वेन लोकानां चेष्टायां स्पन्दने निमित्तं हेतु:,

तथैव अधिष्ठातृत्वेन यो निमित्तं सोऽहमात्मेत्यर्थः - इति इयं

दृष्टि:टिः आत्मज्ञानोपायत्वेन दर्शिता । परमार्थतस्तु निरस्ता:
ताः
निराकृता:ताः अखिला :लाः निरवशेषाः उपाधयो बुद्ध्यादिलक्षणाः

यस्य स तथोक्त:तः । निरस्ताखिलोपाधित्वादेव अयमाकाश-

कल्प:पः आकाशवद्विशुद्ध इत्यर्थः ॥
 
</p>
<p>
ननु मनश्चक्षुरादिप्रवृत्तौ किमर्थमधिष्ठाता इष्यते ? स्व-

यमेव कस्मान्न प्रवर्तन्ते ? कथं च नित्योपलब्धिस्वरूपत्वम्

अधिष्ठातुरिष्यते ? इत्यत आह-
 
--</p>
<verse>
यमग्न्युष्णवन्नित्यबोधस्वरूपं
 

मनश्चक्षुरादीन्यबोधात्मकानि ।
 

प्रवर्तन्त आश्रित्य निष्कम्पमेकं
 

स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ २ ॥
 
</verse>
<p merge-next="true">
यं नित्यबोधस्वरूपमात्मानम् आश्रित्य मनश्चक्षुरादी नि
नि
प्रवर्तन्ते, सोऽहमात्मेति संबन्धः । ननु कथं बोधस्य नित्य-
 
</p>
</page>