This page has not been fully proofread.

हस्तामलकीयभाष्यम् ।
 
१६५
 
संबन्धः । स कीदृश इत्याकाङ्क्षायामाह - नित्योपलब्धि -
रिति । नित्याच असावुपलब्धिश्चेति नित्योपलब्धिः, सा
स्वरूपं यस्य स तथोक्तः । रविः आदित्यः यथा येन प्रकारेण
प्रकाशकत्वेन लोकानां चेष्टायां स्पन्दने निमित्तं हेतु:,
तथैव अधिष्ठातृत्वेन यो निमित्तं सोऽहमात्मेत्यर्थः - इति इयं
दृष्टि: आत्मज्ञानोपायत्वेन दर्शिता । परमार्थतस्तु निरस्ता:
निराकृता: अखिला : निरवशेषाः उपाधयो बुद्धयादिलक्षणाः
यस्य स तथोक्त: । निरस्ताखिलोपाधित्वादेव अयमाकाश-
कल्प: आकाशवद्विशुद्ध इत्यर्थः ॥
 
ननु मनश्चक्षुरादिप्रवृत्तौ किमर्थमधिष्ठाता इष्यते ? स्व-
यमेव कस्मान्न प्रवर्तन्ते ? कथं च नित्योपलब्धिस्वरूपत्वम्
अधिष्ठातुरिष्यते ? इत्यत आह-
 
यमग्न्युष्णवन्नित्यबोधस्वरूपं
 
मनश्चक्षुरादीन्यबोधात्मकानि ।
 
प्रवर्तन्त आश्रित्य निष्कम्पमेकं
 
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ २ ॥
 
यं नित्यबोधस्वरूपमात्मानम् आश्रित्य मनश्चक्षुरादी नि
प्रवर्तन्ते, सोऽहमात्मेति संबन्धः । ननु कथं बोधस्य नित्य-