This page has not been fully proofread.

१६४
 
हस्तामलकीयभाष्यम् ।
 
निमित्तं मनश्चक्षुरादिप्रवृत्तौ
 
निरस्ताखिलोपाधिराकाशकल्पः ।
रविकचेष्टानिमित्तं यथा यः
 
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १ ॥
 
ननु सर्वत्र प्रन्थादौ शिष्टानामिष्टदेवतास्तुतिनमस्कारपू-
र्विका प्रवृत्तिरुपलब्धा ; अयं च विना स्तुतिनमस्कारौ
प्रवर्तमानोऽशिष्टत्वात् अनादरणीयवचन: प्रसज्येतेति चेत्-
न; स्तुतिनमस्कारयोस्त्रैविध्यात्; त्रिविधौ हि स्तुतिनमस्का-
रौ - कायिकौ वाचिकौ मानसिकौ चेति । तत्र कायिकवा -
चिकयोरभावेऽपि परमशिष्टत्वादाचार्यस्य ग्रन्थस्य अविघ्नेन
परिसमाप्तेश्च मानसिकौ स्तुतिनमस्कारावकरोद्यमाचार्य
इत्यवगम्यते; यत्किंचिदेतत् । प्रकृतमनुसराम: - मनश्च
चक्षुश्च मनश्चक्षुषी, ते आदिर्येषां तानि मनश्चक्षुरादीनि ;
आदिशब्दः प्रत्येकमभिसंबध्यते ; ततश्च अयमर्थो भवति-
मनआदीनां मनोऽहंकारबुद्धिचित्तानां चतुर्णामन्तः करणा-
नाम्, तथा चक्षुरादीनां चक्षुस्त्वक्श्रोत्रजिह्वाम्राणानां पञ्चबु-
द्धीन्द्रियाणाम्, एवं वाक्पाणिपादपायूपस्थानां पञ्चकर्मेन्द्रि
ग्राणाम्, प्रवृत्तौ स्वस्वव्यापारे, निमित्तं हेतुः यः, सोऽहमात्मेति