This page has been fully proofread once and needs a second look.

1*ft: 11
 
<page>
<subtitle>॥ श्रीः ॥</subtitle>
<title>
॥ हस्तामलकीयभाष्यम् ॥
 
</title>
<verse>
यस्मिन्ान्ज्ञाते भवेत्सर्वं विज्ञातं परमात्मनि ।

तं वन्दे नित्यविज्ञानमानन्दमजमव्ययम् ॥
 
</verse>
<verse>
यदज्ञानादभूद्द्वैतं ज्ञाते यस्मिन्निवर्तते ।

रज्जुसर्पवदत्यन्तं तं वन्दे पुरुषोत्तमम् ॥
 
</verse>
<verse>
यस्योपदेशदीधित्या चिदात्मा नः प्रकाशते ।

नमः सद्गुरवे तस्मै स्वाविद्याध्वान्तभानवे ॥
 
</verse>
<p>
इह हि सर्वस्य जन्तो:तोः सुखं मे भूयाद्दुःखं मे मा भूयात्

इति स्वरसत एव सुखोपादित्सादु : दुःखजिहा से भवतः । तत्र

यः कश्चित् पुण्यातिशयशाली अवश्यंभाविदुःखाविनाभू-

तत्वादनित्यत्वाच्च विषयजं सुखं दुःखमेवेति ज्ञात्वा यत्नेन

ससाधनात्संसारात्त्यक्तासक्तिरत्यन्तं विरज्यते । विरक्तश्च

संसारहानौ यतते । संसारस्य च आत्मस्वरूपापरिज्ञानकृत-

त्वात् आत्मज्ञानान्निवृत्तिरिति तं प्रत्यात्मज्ञानमाचार्य उप-

दिशति-
 
--</p>
</page>