This page has not been fully proofread.

1*ft: 11
 
॥ हस्तामलकीयभाष्यम् ॥
 
यस्मिन्ा भवेत्सर्व विज्ञातं परमात्मनि ।
तं वन्दे नित्यविज्ञानमानन्दमजमव्ययम् ॥
 
यदज्ञानादभूद्वैतं ज्ञाते यस्मिन्निवर्तते ।
रज्जुसर्पवदत्यन्तं तं वन्दे पुरुषोत्तमम् ॥
 
यस्योपदेशदीधित्या चिदात्मा नः प्रकाशते ।
नमः सद्गुरवे तस्मै स्वाविद्याध्वान्तभानवे ॥
 
इह हि सर्वस्य जन्तो: सुखं मे भूयाद्दुःखं मे मा भूयात्
इति स्वरसत एव सुखोपादित्सादु : खजिहा से भवतः । तत्र
यः कश्चित् पुण्यातिशयशाली अवश्यंभाविदुःखाविनाभू-
तत्वादनित्यत्वाच्च विषयजं सुखं दुःखमेवेति ज्ञात्वा यत्नेन
ससाधनात्संसारात्त्यक्तासक्तिरत्यन्तं विरज्यते । विरक्तश्च
संसारहानौ यतते । संसारस्य च आत्मस्वरूपापरिज्ञानकृत-
त्वात् आत्मज्ञानान्निवृत्तिरिति तं प्रत्यात्मज्ञानमाचार्य उप-
दिशति-