2026-03-05 06:52:59 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१६०
यतिपञ्चकम् ।
</ignore>
<verse>स्वानन्दभावे परितुष्टिमन्त:
तः
संशान्तसर्वेन्द्रियदृष्टिमन्तः ।
अहर्निशं ब्रह्मणि ये रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ४ ॥
</verse>
<verse>पञ्चाक्षरं पावनमुच्चरन्तः
पतिं पशूनां हृदि भावयन्तः ।
भिक्षाशना दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ५ ॥
</verse>
<trailer>इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
यतिपञ्चकं संपूर्णम् ॥
</trailer>
</page>
<ignore>१६०
<verse>स्वानन्दभावे परितुष्टिमन्
संशान्तसर्वेन्द्रियदृष्टिमन्तः ।
अहर्निशं ब्रह्मणि ये रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ४ ॥
<verse>पञ्चाक्षरं पावनमुच्चरन्तः
पतिं पशूनां हृदि भावयन्तः ।
भिक्षाशना दिक्षु परिभ्रमन्तः
कौपीनवन्तः खलु भाग्यवन्तः ॥ ५ ॥
<trailer>इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
यतिपञ्चकं संपूर्णम् ॥
</page>