This page has not been fully proofread.

11 : 11
 
॥ स्वरूपानुसंधानाष्टकम् ॥
 
तपोयज्ञदानादिभिः शुद्धबुद्धि-
विरक्तो नृपादेः पदे तुच्छबुद्ध्या ।
परित्यज्य सर्वे यदाप्नोति तत्त्वं
 
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ १ ॥
 
दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं
 
समाराध्य मत्या विचार्य स्वरूपम् ।
यदाप्नोति तत्त्वं निदिध्यास्य विद्वा-
 
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ २ ॥
 
यदानन्दरूपं प्रकाशस्वरूपं
 
निरस्तप्रपञ्चं परिच्छेदहीनम् ।
 
अहं ब्रह्मवृत्त्यैकगम्यं तुरीयं
 
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ३ ॥